top of page
नवाक्षरीस्तोत्रम् | Navakshari stotram
नवाक्षरीस्तोत्रम्
श्रीगुरुचरणसरोजं श्रीकरभवतरणसुकरदृढनावम् ।
मच्चितमधुपझङ्कृतमानन्दं नौमि शाङ्करं शरण्यम् ॥ १॥
ऐन्द्रधनुर्मरतकमामैरावतनाथगीर्भिरभ्यर्च्याम् ।
ऐङ्कारार्थस्वरूपामैशानीनाथसेवितां वन्दे ॥ २॥
ह्रीनतदैत्यसमूहां हृद्यां सुरलोकसेविताङ्घ्रियुगाम् ।
ह्रींकारान्त्यसरूपां हृदयविलासप्रचोदितां वन्दे ॥ ३॥
क्लींकारकामजननीं क्लीमितिशब्दप्रपूरितदिगन्ताम् ।
क्लीबस्त्रीपुंशब्दक्रीडारूपां नमामि विश्वमयीम् ॥ ४॥
चामरबिभ्रद्वाणीचन्द्रसजातासुसेव्यपार्श्वयुगाम् ।
चरणतलमहिषमुण्डां चापादिकरां नमामि चामुण्डाम् ॥ ५॥
मुण्डमणिहारकण्ठीं मुकुरकपोलप्रभासुशोभमुखीम् ।
मुहुरास्फालितधनुषं मुरहरभागिनीं नमामि मुग्धतनुम् ॥ ६॥
डाकिन्याद्यभितुष्टां डमरुकनादेन पूरितदिगन्ताम् ।
डम्भाभिमानहन्त्रीं डामरतन्त्रप्रकाशितां वन्दे ॥ ७॥
यैवर्णसत्यमायायस्यै दत्तान्यायुधानि शक्राद्यैः ।
यौवनमदसाम्राज्यायै तस्यै…